










*श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।*
*श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥*
*चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते आर्तालीवरदे नताभयकरे वक्षोजभारान्विते । विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥*
*कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते कोकाकारकुचद्वयोपरिलसत्प्रालम् बहाराञ्चिते । शिञ्जन्नूपुरपादसारसमणीश्रीपादु कालंकृते मद्दारिद्र्यभुजंगगारुडखगे मां पाहि मीनाम्बिके ॥ ३॥*
*ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते । बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले मुद्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ४ ॥*
*गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते । खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले मन्त्राराधितदैवते मुनिसुते मां पाही मीनाम्बिके ॥ ५ ॥*
*नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे । कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥*
*वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते । श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालिके पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७॥*
*शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी । तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥*
*इति श्रीमत्परमहंसपरिव्राजकाचार्यस् य श्रीगोविन्दभगवत्पूज्यपादशिष् यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षीस्तोत्रं संपूर्णम् ॥*











No comments:
Post a Comment